छात्रस्य जीवनम् इति छात्रजीवनम्। छात्रजीवनं अतीव कोमलं चपलम् च। परन्तु अस्मिन् समये छात्राणामुपरि गुरुदायित्वं न्यस्तः भवति। विद्यालयः महाविद्यालयः विश्वविद्यालयश्च छात्राणां अंगत्वेन वर्तन्ते अपि च तेषां अवदानेन एव शोभन्ते। छात्रशिक्षकान् परिगृह्य एव विद्यालयः चलति। छात्राणां चरित्रगठनाय देशस्य भविष्यतनिर्मातुं तेषामध्ययनस्य आवश्यकतामस्ति। सुशिक्षितान् नागरिकान् प्राप्य देशः समृद्धः भवति। यस्य देशस्य नागरिकाः उन्नताः स देशः तथा समुन्नतः। अतः देशगठनाय छात्राणां उन्नतिः वैशिष्टं विषये च यथार्थेन विचारणीयः। छात्राः देशस्य मूलपिण्डाः। महात्मना मदनमोहन मालव्येन विरचितोऽयं श्लोकः - सत्येन ब्रह्मचर्येण व्यायामेनाथ विद्यया। देशभक्त्याऽऽत्मत्यागेन सम्मानार्हः सदा भव॥ अर्थात् -
सत्येन, इन्द्रियसंयमेन(ब्रम्हचर्येण), शारीरिकश्रमेण(व्यायामेन), शिक्षया, देशप्रेमद्वारा, स्वार्थत्यागेन च त्वं सर्वदा सम्मानस्य योग्यः भव।
व्रम्हचारीजीवनं नूनमेव वहुमूल्यं उच्चतरम् च। एतस्मिन् समये छात्राः गुरुकुलाश्रमे विद्यालये वा कठोरनियमेन निबद्धासन् तिष्ठन्ति। तत्र अध्ययनेन समं कायिक शिक्षामपि लभते।तेषु नियमेषु समयानुवर्त्ती अन्यतमा। परवर्त्तीसमये एतानि नियमानि देशस्य, विश्वस्य, प्रकृत्याश्च समुन्नतिसाधयितुं तान् महदुपादानम् प्रददति। अध्ययनात् हि तेषां चरिताः उन्नततराः भवन्ति। एतदर्थं उक्तं यत् -
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानान्तु वसुधैव कुटुम्बकम्॥
अर्थात् -
अयं मम स्वकीयः अथवा परकीयः इति विचारः(गणना) नीचमनसां जनानाम् भवति। किन्तु प्रशस्तमनसां जनानां केवलम् पृथिवी परिवारः अस्ति।
(छात्रारेव देशस्य संचालनाय विकाशाय च समर्थाः।)
छात्राः प्रवाहिता नदीरिव। अतः तान् समुचितगुरोरुपदेशम् दद्यात्। उक्तमेव, -
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य बर्धन्ते आयुर्विद्यायशोबलम्॥
अर्थात् -
नियमितरूपेण गुरुजनान् प्रणमतः प्रतिदिनं च वयस्कज्ञानिजनानां सेवां कुर्वतः जनस्य आयुष्यम् ज्ञानम् कीर्त्तिः शक्तिः - एतानि चतुर्विधानि वृद्धिं लभन्ते।
विद्यार्थिनः प्रचेष्टावन्ताः प्रयासरताः वा भवेयुः। यथा -
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥
अर्थात् -
उत्तम प्रयासेेन हि कार्याणि सिद्धिर्भवन्ति, न मनोरथैः। यथा जन्तवः सुप्तस्य सिंहस्य मुखाभ्यन्तरे न प्रविशन्ति।
कविना श्रीसोमदेवेन विरचिते कथासरित्सागरग्रन्थे छात्रानुद्दिश्य रचितम् यत् -
छात्राः विद्यार्थिनः वा विद्यां प्रति श्रद्धावन्ताः भवेयुः। श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेन उक्तम् -
"श्रद्धावान् लभते ज्ञानम् तत्परः संयतेन्द्रियः।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति॥"
समाप्तम्