Sunday, October 13, 2024

व्यावहारिक दृश्यावली(SNIPPETS FROM DAILY LIVES)

  

                         संकीर्णपथे शिशुः मात्रा सह गच्छति। तदा तस्य दृष्टिः एकस्य आपणस्योपरि पतति । आपणे नित्यव्यवहृतानि गृहोपकरणानि तथा खाद्यपानीयादि द्रव्याणि स्थितानि। एतत् सहितं तत्र चाकलेहः पयोहिममपि च उपलभ्यते। माता यदा आपणं निकषा आप्नोति तदा मार्गे एव मातुः हस्तं कर्षयित्वा शिशुः अभिनयेन आपणं प्रति गन्तुम् दर्शयति। तस्य अभिनयं दृष्ट्वा  उच्चैः वदति माता - "नहि। मम स्यूते धनं नास्ति। गृहं प्रति चलतु।" 

शिशुः -  हस्तं क्षिप्त्वा पदोत्थानेन सह च उम् इति शब्दं कृत्वा तिष्ठति तत्र । 

दृष्ट्वा इमं माता तस्य हस्तं धृत्वा शीघ्रं गृहम् प्रति गच्छति स्म।

No comments:

Post a Comment

सुभाषितम्(NOBLE THOUGHTS)

 अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि तस्य बर्धन्ते आयुर्विद्यायशोबलम्॥(महर्षि मनुः)  अर्थ  -               प्रतिदिन नियमितरूपसे गुरु...