संकीर्णपथे शिशुः मात्रा सह गच्छति। तदा तस्य दृष्टिः एकस्य आपणस्योपरि पतति । आपणे नित्यव्यवहृतानि गृहोपकरणानि तथा खाद्यपानीयादि द्रव्याणि स्थितानि। एतत् सहितं तत्र चाकलेहः पयोहिममपि च उपलभ्यते। माता यदा आपणं निकषा आप्नोति तदा मार्गे एव मातुः हस्तं कर्षयित्वा शिशुः अभिनयेन आपणं प्रति गन्तुम् दर्शयति। तस्य अभिनयं दृष्ट्वा उच्चैः वदति माता - "नहि। मम स्यूते धनं नास्ति। गृहं प्रति चलतु।"
शिशुः - हस्तं क्षिप्त्वा पदोत्थानेन सह च उम् इति शब्दं कृत्वा तिष्ठति तत्र ।
दृष्ट्वा इमं माता तस्य हस्तं धृत्वा शीघ्रं गृहम् प्रति गच्छति स्म।