एका महिला वस्त्रप्रक्षालनचूर्णं आनेतुं विपणीं अगच्छत्। मार्गे गच्छती सा देवालयं दृष्ट्वा तत्र अगच्छत्। देवालये देवदर्शनं कृत्वा एकस्मिन् आपणे प्रविष्टा।
महिला - (अपृच्छत् आपणिकाम् ) वस्त्रप्रक्षालनचूर्णं अस्ति वा न?
आपणिका - आम् , अस्ति। (आपणिका आहूतवती ) भो भगिनी! आगच्छतु शीघ्रम् आपणाभ्यन्तरम् तव हस्ते औषधिं लेपयिष्यामि।
(एतत् श्रुत्वा आश्चर्येण सह)
महिला आहुः - (आश्चर्येण सह) नही, नही, किमपि न भवति। कुत्रचिदपि मम शरीरे आघातः न भवति। (स्मरणं कृत्वा) भवती तु रक्तवर्णं सिन्दूरयुक्तं अङ्गुलिं दृष्टवा तस्मात् रुधीरः निर्गच्छति इति मन्यते किल ।
आपणिका - आम्।
महिला - (स्मितमुखेन अवदत्) अहं संप्रति विपणीं आगमन समये मार्गेस्य दक्षिणतः आगतं देवालयं गतवती।
तत्र देवदर्शनं कृत्वा मस्तके सिन्दूरं धारितवती। किञ्चित् सिन्दूरं अङ्गुल्यां धारयित्वा परिवारसदस्यानां कृते नयामि।
आपणिका - समीचीनमस्ति। अहमपि एवं करोमि इति उक्तवा अहसताम् उभयौ।