* रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः॥
* पद्मासनस्थिते देवि परंब्रम्ह परायणी।
परमेष्ठी जगत्मात महालक्ष्मी नमोऽस्तु ते॥
* तमेकमद्भूूतं प्रभुं निरीहमीश्वरं विभुम्।
जगद्गुरुं च शाश्वतं तुरीयमेव केवलम्॥
* लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं,
दासीभूत समस्तदेववनितां लोकैैकदीपाङ्कुराम्।
श्रीमन्मन्द कटाक्ष लब्ध विभव ब्रम्हेन्द्र गङ्गाधरां,
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम्॥
* यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम्।
विघ्नं निघ्नन्ति सततं विश्वक्सेनं तमाश्रये॥
* या कुन्देन्दु तुषारहारधवला, या शुभ्रवस्त्रावृता;
या वीणावरदण्ड मण्डितकरा, या श्वेतपद्मासना।
या ब्रम्हाच्युत शङ्करप्रभृतिभिः, देवैः सदा पूजिता;
सा मां पातु सरस्वती भगवती, निःशेष जाड्यापहा॥
* हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते;
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव।
हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां;
हे गोपीजननाथ पालय परं जानामि न त्वां विना॥
* नमस्ते नमस्ते महादेव शम्भो, नमस्ते नमस्ते प्रसन्नैकबन्धो।
नमस्ते नमस्ते दयासारसिन्धो, नमस्ते नमस्ते नमस्ते महेश॥
* श्वेतपद्मासना देवि श्वेतपुष्पा शोभिता।
श्वेताम्वराधरा नित्या श्वेतगन्धानुलेपना।
* नमस्ते हस्तिशैलेश श्रीमन्नम्बुजलोचन।
शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत॥
No comments:
Post a Comment