Saturday, December 6, 2025

व्यावहारिक दृश्यावली(SHORT STORY)

 

सायं कालः। तुङ्ग प्रासादानां सम्मुखे एकः क्रीडाप्रान्तरः अस्ति। तत्र क्रीडतां बालकानां शिशूनां च कोलाहलथ्वनिः श्रुयते। जनाः अपि तत्र भ्रमन्ति स्म। तस्मिन्  समये एका बालिका महाविद्यालयतः प्रतियानं/ प्रतिवर्तनं करोति स्म। यदा तस्याः प्रासादस्य समीपे उपसर्पणं भवति तदा प्रान्तरे क्रीडन्तं तस्य भ्रातरं  दृष्टवा तं आह्वयति सा। 

बालिका - अये भ्रात! विलंबं अभवत्। गृहं चलावः। 

   कतिवारं आह्वयति सा। तथापि  तेन न श्रुतम्। 

 तत्र विचरतः/भ्राम्यमाणेकस्य प्रतिवेशीमहोदयस्य कर्कराटुः भगिनीभ्रातरयोः उपरि अपतत्। सः बालां अवदत् , 'तव भ्राता संप्रति न गमिष्यति तया साकम्। त्वं एकाकी भवनं गच्छ'। 

बालिका - पितृव्य महोदय! तस्य मनोभावं कथं भवता दृढतया ज्ञातम् ? 

प्रतिवेशी महोदयः  - अहसन् , आह्वय तं पुनरेकवारम्।

 ( उच्चैः सा आह्वयति) 

बालिका -- भो भ्रात! विलम्बं अभवत्। आगच्छ त्वं मया साकम्। 

भ्राता --  (भ्रुकुञ्चनं कृत्वा शरीरं च आन्दोलयित्वा) नहि नहि। अहं न आगमिष्यामि अधुना इत्युक्तवा सः क्रीडायाम् व्यस्तः अभवत्।

बालिका - पितृव्य महाशय! भवता सत्यमुक्तम्। एषः नागच्छति। भ्रातरि विषये भवतः एतावत् दृढविश्वासः कथमस्ति? कृपया कथयतु।

प्रतिवेशीमहोदयः - (स्मितहासं कृत्वा) 

                  अनुभूत्यारेव कथयामि। एषः बालसुलभ व्यवहारः। मया अपि बाल्यकाले एतादृशं कार्यं कृतं वहुवारम्। उभयोः क्रियया मया आनन्दं अनुभूतम् इत्युक्त्वा भ्रमणरतोऽभवत्। 

बाला अपि हर्षोऽनुभवत्यैव भवनमगच्छत्।

No comments:

Post a Comment

सुभाषितम्(NOBLE THOUGHTS)

 उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिज्ञं विषयेष्वसक्तम्। शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं याति निवासहेतोः।। अर्थात्,         उत्साही...