सायं कालः। तुङ्ग प्रासादानां सम्मुखे एकः क्रीडाप्रान्तरः अस्ति। तत्र क्रीडतां बालकानां शिशूनां च कोलाहलथ्वनिः श्रुयते। जनाः अपि तत्र भ्रमन्ति स्म। तस्मिन् समये एका बालिका महाविद्यालयतः प्रतियानं/ प्रतिवर्तनं करोति स्म। यदा तस्याः प्रासादस्य समीपे उपसर्पणं भवति तदा प्रान्तरे क्रीडन्तं तस्य भ्रातरं दृष्टवा तं आह्वयति सा।
बालिका - अये भ्रात! विलंबं अभवत्। गृहं चलावः।
कतिवारं आह्वयति सा। तथापि तेन न श्रुतम्।
तत्र विचरतः/भ्राम्यमाणेकस्य प्रतिवेशीमहोदयस्य कर्कराटुः भगिनीभ्रातरयोः उपरि अपतत्। सः बालां अवदत् , 'तव भ्राता संप्रति न गमिष्यति तया साकम्। त्वं एकाकी भवनं गच्छ'।
बालिका - पितृव्य महोदय! तस्य मनोभावं कथं भवता दृढतया ज्ञातम् ?
प्रतिवेशी महोदयः - अहसन् , आह्वय तं पुनरेकवारम्।
( उच्चैः सा आह्वयति)
बालिका -- भो भ्रात! विलम्बं अभवत्। आगच्छ त्वं मया साकम्।
भ्राता -- (भ्रुकुञ्चनं कृत्वा शरीरं च आन्दोलयित्वा) नहि नहि। अहं न आगमिष्यामि अधुना इत्युक्तवा सः क्रीडायाम् व्यस्तः अभवत्।
बालिका - पितृव्य महाशय! भवता सत्यमुक्तम्। एषः नागच्छति। भ्रातरि विषये भवतः एतावत् दृढविश्वासः कथमस्ति? कृपया कथयतु।
प्रतिवेशीमहोदयः - (स्मितहासं कृत्वा)
अनुभूत्यारेव कथयामि। एषः बालसुलभ व्यवहारः। मया अपि बाल्यकाले एतादृशं कार्यं कृतं वहुवारम्। उभयोः क्रियया मया आनन्दं अनुभूतम् इत्युक्त्वा भ्रमणरतोऽभवत्।
बाला अपि हर्षोऽनुभवत्यैव भवनमगच्छत्।
No comments:
Post a Comment