छात्रस्य जीवनम् इति छात्रजीवनम्। छात्रजीवनं अतीव कोमलं चपलम् च। परन्तु अस्मिन् समये छात्राणामुपरि गुरुदायित्वं न्यस्तः भवति। विद्यालयः महाविद्यालयः विश्वविद्यालयश्च छात्राणां अंगत्वेन वर्तन्ते अपि च तेषां अवदानेन एव शोभन्ते। छात्रशिक्षकान् परिगृह्य एव विद्यालयः चलति। छात्राणां चरित्रगठनाय देशस्य भविष्यतनिर्मातुं तेषामध्ययनस्य आवश्यकतामस्ति। सुशिक्षितान् नागरिकान् प्राप्य देशः समृद्धः भवति। यस्य देशस्य नागरिकाः उन्नताः स देशः तथा समुन्नतः। अतः देशगठनाय छात्राणां उन्नतिः वैशिष्टं विषये च यथार्थेन विचारणीयः। छात्राः देशस्य मूलपिण्डाः। महात्मना मदनमोहन मालव्येन विरचितोऽयं श्लोकः - सत्येन ब्रह्मचर्येण व्यायामेनाथ विद्यया। देशभक्त्याऽऽत्मत्यागेन सम्मानार्हः सदा भव॥ अर्थात् -
सत्येन, इन्द्रियसंयमेन(ब्रम्हचर्येण), शारीरिकश्रमेण(व्यायामेन), शिक्षया, देशप्रेमद्वारा, स्वार्थत्यागेन च त्वं सर्वदा सम्मानस्य योग्यः भव।
गुरोरुपदेशान् छादयति आछादयति वा इति छात्रः। अतः छात्रः गुरोः सदुपदेशं गृह्णीयात्। पुनश्च छात्रशव्दस्य प्रतिशव्दः वर्तते शिष्यः। शास्यते इति शिष्यः। अतः छात्राः गुरुभिः उपदिष्टाः उपदिश्यन्ते वा। अपरं प्रतिशव्दं भवति विद्यार्थी । विद्यां ज्ञानं वा अर्थयति इति विद्यार्थी। अतः शिष्याः गुरुभ्यो सद्ज्ञानं आहरणं कुर्युः। परन्तु संप्रति छात्राः विद्याविमुखाः भूत्वा अन्यविषये अन्य विषये अधिकं गुरुत्वं ददति। अध्ययनं ही छात्राणां प्रमुखं कर्मम्। अतः यथार्थोक्तं - छात्राणां अध्ययनं तपः। विद्योपार्जनं,शिक्षाग्रहणं, चरित्रोन्नतिः, शारीरिक मानसिक आत्मिक नैतिक बलाधानम् हृष्टत्वंपृष्टत्वं च सद्गुणमेव विद्याध्ययनकारीषु समभीष्यते।
प्राचीनकाले भारतीयानां जीवनस्य चत्वारःभागः आसन्। यथा - १ व्रम्हचर्याश्रमः २. गार्हस्थ्याश्रमः ३. वानप्रस्थाश्रमः ४. सन्यासाश्रमः
एतेषु जीवनस्य प्रथमो भागः व्रम्हचर्याश्रमः। व्रम्हचर्यसमयः एव अध्ययनकालः अस्ति। अस्मिन् समये सर्वे विद्याध्ययनं कुर्वन्ति। फलेन जीवनं समुत्कर्षं भवति। आत्मशान्तिः लभते। मनः सुस्थं भवति। इन्द्रियाण्यपि प्रफुल्लितानि। जीवनस्य सर्वोन्नतिः साधितमस्ति।
व्रम्हचारीजीवनं नूनमेव वहुमूल्यं उच्चतरम् च। एतस्मिन् समये छात्राः गुरुकुलाश्रमे विद्यालये वा कठोरनियमेन निबद्धासन् तिष्ठन्ति। तत्र अध्ययनेन समं कायिक शिक्षामपि लभते।तेषु नियमेषु समयानुवर्त्ती अन्यतमा। परवर्त्तीसमये एतानि नियमानि देशस्य, विश्वस्य, प्रकृत्याश्च समुन्नतिसाधयितुं तान् महदुपादानम् प्रददति। अध्ययनात् हि तेषां चरिताः उन्नततराः भवन्ति। एतदर्थं उक्तं यत् -
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानान्तु वसुधैव कुटुम्बकम्॥
अर्थात् -
अयं मम स्वकीयः अथवा परकीयः इति विचारः(गणना) नीचमनसां जनानाम् भवति। किन्तु प्रशस्तमनसां जनानां केवलम् पृथिवी परिवारः अस्ति।
(छात्रारेव देशस्य संचालनाय विकाशाय च समर्थाः।)
छात्राः प्रवाहिता नदीरिव। अतः तान् समुचितगुरोरुपदेशम् दद्यात्। उक्तमेव, -
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य बर्धन्ते आयुर्विद्यायशोबलम्॥
अर्थात् -
नियमितरूपेण गुरुजनान् प्रणमतः प्रतिदिनं च वयस्कज्ञानिजनानां सेवां कुर्वतः जनस्य आयुष्यम् ज्ञानम् कीर्त्तिः शक्तिः - एतानि चतुर्विधानि वृद्धिं लभन्ते।
विद्यार्थिनः प्रचेष्टावन्ताः प्रयासरताः वा भवेयुः। यथा -
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥
अर्थात् -
उत्तम प्रयासेेन हि कार्याणि सिद्धिर्भवन्ति, न मनोरथैः। यथा जन्तवः सुप्तस्य सिंहस्य मुखाभ्यन्तरे न प्रविशन्ति।
कविना श्रीसोमदेवेन विरचिते कथासरित्सागरग्रन्थे छात्रानुद्दिश्य रचितम् यत् -
परिधानैरलङ्कारैर्भूषितोऽपि न शोभते।
नरो निर्मणिभोगीव सभायां यदि वा गृहे॥
अर्थात् -
वस्त्रैः आभूषणैश्च सुशोभितोऽपि विद्याहीनः मनुष्यः गृहे अथवा सभायां न सुशोभते। यथा मणिविहीनः सर्पः न शोभते।
विद्याध्ययनकारी छात्राः विनयी भवेयुः। विनयः संभाव्यते अध्ययनात्। विद्वद्भिः उक्तं यत् -
" विद्या ददाति विनयं विनयात् याति पात्रताम्।
पात्रत्वात् धनमाप्नोति धनात् धर्मः ततः सुखम्।"
अर्थात् -
विद्यया शिक्षया वा छात्रः विनयी भवति, विनम्रतायाः योग्यता उत्पद्यते। योग्यतायाः धनं समृद्धिश्च लभते। समृद्धेः सदाचारं प्राप्नोति। तत्पश्चात् सदाचारेण एव सुखं प्राप्नोति।
स्वामी विवेकानन्दः,लाल बहादूर शास्त्री, नेताजी सुभाष चन्द्र बोस , बाल गङ्गाधर तिलक, वैज्ञानिकेषु डॉक्टरः ए पि जे अब्दुल् कलाम् आदयः छात्रजीवने कठोर परिश्रमः कृत्वा एव देशस्य महानुभावाः भवन्ति स्म।
छात्राः विद्यार्थिनः वा विद्यां प्रति श्रद्धावन्ताः भवेयुः। श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेन उक्तम् -
"श्रद्धावान् लभते ज्ञानम् तत्परः संयतेन्द्रियः।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति॥"
समाप्तम्